संकट नाशन गणेश स्तोत्रम्

Rate this page

संकट नाशन गणेश स्तोत्रम्

संकट नाशन गणेश स्तोत्रम् । नारद उवाच ।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥ 1 ॥

प्रथमं वक्रतुंडं च, एकदंतं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं, गजवक्त्रं चतुर्थकम् ॥ 2 ॥

लंबोदरं पंचमं च, षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च, धूम्रवर्णं तथाष्टमम् ॥ 3 ॥

नवमं भालचंद्रं च, दशमं तु विनायकम् ।
एकादशं गणपतिं, द्वादशं तु गजाननम् ॥ 4 ॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ 5 ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ 6 ॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ 7 ॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ 8 ॥

इति श्रीनारदपुराणे संकष्टनाशनं नाम गणेश स्तोत्रम् ।

गनहश स्तुति

(आप इन अन्य श्लोकों को अन्य पृष्ठों पर पढ़ सकते हैं: श्रीरुद्रं नमकं, श्रीरुद्रं चमकं, शिव तांडव स्तोत्र, शिवाष्टकम, लिंगाष्टकम|)