अश्वनी दॆवता स्तॊत्रं
अश्वनी दॆवता स्तॊत्रं:
प्रपूर्वगौ पूर्वजौ चित्रभानू गिरि – वाशं सामि तपसाह्यनम तौ
दिव्यौ सुपर्णौ विरजौ विमानौ – अधिक्षिपन्तौ भुवनानि विश्वाः -१
हिरण्मयौ शकुनी सांपरायौ – ना सत्य दस्रौ सुनसौ वैजयंतौ
शुक्रम वयंतौ तरसा सु वॆम्ना – वधि व्यतंतौ वसितं विवश्वतः -२
ग्रस्तां सुपर्णस्य बलॆन वर्तिकां – अमुंचता मस्विनौ सौभगाय
तावत्सु वृतौ अनमंत मायया – वासत्त मागा अरुणा उदा वहन-३
षष्टिश्च गावः त्रिशतश्च धॆनवः – ऎकं वत्सं सुवतीतं दुहंति
नाना गॊष्ठा विहिता ऎक दॊहना – तावस्विनौ दुहतॊ घर्म मुक्त्यम-४
ऎकां नाभिं सप्तशता अराः श्रिताः – प्रधिघ अन्या विंशति रर्पिता अराः
अनॆमि चक्रं परिवर्ततॆ अजरं – माया स्विनौ समसक्ति चर्षणी-५
ऎकं चक्रं वर्ततॆ द्वादशारं – षण्णाभि ऎकाक्ष अमृतस्य धारं-
अस्मिन दॆवा अधि विश्वॆ विषक्तासा – वस्विनौ मुंचतॊ मा विषीदतं-६
अश्विना विंदु मम्रुतं वृत्तभूयॊ – तिरॊधत्ता मस्विनौ दा सपत्नी
हित्वा गिरि मस्विनौ गा मुदा चरं तौ – वृत्तभूयॊ मह्ना प्रस्थितौ बलस्य-७
युवां दिशॊ जन यधॊदशाग्रॆ – समानं मूर्ध्नि रधयानं वियंति
तासां यात मृषयॊनु प्रयांति – दॆवा मनुष्याः क्षिति मा चरंति-८
युवां वर्णान विकुरधॊ विश्वरूपान – तॆधि क्षिपंतॆ भुवनानि विश्वा
तॆ भानवॊप्यनु सृता श्चरंति – दॆवा मनुष्याः क्षिति मा चरंति-९
तौ ना सत्या वश्विनौ महॆम – स्रजं चया बिबृधः पुष्करस्य
तौ ना सत्या वमृता वृधा वृतॆ – दॆवा* स्तत्प्र पदॆन सूतॆ-१०
मुखॆन गर्भं लभतां युवा नौ – गता सुरॆ तत प्रपदॆन सूतॆ
सद्योजातॊ मातर मत्ति गर्भः – ता वस्विनौ मुंचधॊ जीवसॆगा-११
स्तॊतुं नशक्नॊमि गुणैर्भवंतौ – चक्षर्विहीनः पधि संप्र मॊहः
दुर्गॆ हमस्मिन पतितॊ स्मिकूपॆ – युवां शरण्यौ शरणं प्रपद्यॆ-१२
इति अश्वनि दॆवता स्तॊत्रं परिपूर्णं